________________
११४ • मङ्गलकलशकथानकम् तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ।।५४।। गृहं गतस्य सा वाणी विस्मृता तस्य दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ।।५५।। अहो अद्यापि सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥५६।। सोऽचिन्तयदिदं यावत् तावदुत्पाट्य वात्यया । नीतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥५७।। भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्रमकरं ददर्शाग्रे सरोवरम् ।।५८॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वद्रुमम् ॥५९।। तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥६०॥ कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥६१॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥६२।। तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥६३।। तावत् तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥६४।।
Dislam
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org