________________
श्रीअजितप्रभसूरिविरचितम् • ११३ देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव ॥४३।। मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽर्पय ॥४४॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ।।४५।। देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥४६।। कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः पश्चात्कुर्याद् यथोचितम् ॥४७|| युग्मम् ।। इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वां विवाहसामग्री प्रगुणीकुरुते स्म सः ॥४८॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥४९।। इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥५०॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उज्जयिन्यां ययौ पुर्यां मन्त्रिणः कुलदेवता ॥५१।। अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामाद्गच्छतो निजवेश्मनि ।।५२।। स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥५३।। युग्मम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org