________________
११० • मङ्गलकलशकथानकम्
ततश्च देवपूजार्थं पुष्पग्रहणहेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ||१०|| स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ ११ ॥ तत्र नैषेधिकीमुख्यान् यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥१२॥ ततः साधून् नमस्कृत्य प्रत्याखयानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ||१३|| अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैवं धनदत्तो व्यधात्सुधीः ||१४|| अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ||१५|| पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ||१६|| जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ||१७|| कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा ।
तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ||१८|| सोऽवदद् वत्स ! गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजम् ||१९||
ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ? ||२०||
PSYTQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org