SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभसूरिविरचितम् • १११ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरु (र) णादीनि सुस्वादूनि फलान्यलम् ॥२१॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥२२॥ द्वितीये च दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ २३ ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पितापि तत् ॥२४॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा । कियत्यपि गते काले यज्जातं तन्निशम्यताम् ॥२५॥ अस्त्यत्र भरतक्षेत्रे चम्पा नाम महापुरी | अभूत् तत्र महाबाहुः पार्थिवः सुरसुन्दरः ||२६|| राज्ञी गुणावली तस्य सा निजोत्सङ्गवर्त्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ||२७|| राजा प्रोवाच हे देवि ! तव पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ||२८| पूर्णकालेऽथ चार्वङ्गी सा देवी सुषुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ||२९|| लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा । बभूव यौवनप्राप्ता सा मूर्त्तेव सुराङ्गना ||३०|| तां विलोक्यानवद्याङ्गीं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ? ||३१|| Libyaq Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy