________________
४. श्रीअजितप्रभसूरिविरचितम् मङ्गलकलशकथानकम् ॥
उज्जयिन्यां महापुर्यां वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठ्यभूत् ॥१॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ।।२।। सत्यभामेति तद्भार्या शीलालङ्कृतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥३॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ॥४॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ।।५।। धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ।।६।। तत् त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्यः पुस्तकं चापि लेखय ।।७।। एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ।।८।। हृष्टः श्रेष्ठ्यप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धर्मो भवेच्चिन्तामणिर्नृणाम् ।।९।।
syag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org