________________
,
१०६ • मङ्गलकलशकथानकम् निषण्णे भूपतौ तत्र, प्रसादविकसद्दृशि । वासनाशासनावासां विदधे धर्मदेशनाम् ॥ २१९ ॥ प्रस्तावेऽवोचदुर्वीशो, गुरो ! दुःख्यभवं कथम् ? । सकलङ्का कथं देवी ?, तद् ब्रूहि ज्ञानिनाम्वर ! ॥२२०॥ अथोचे साधुपुन्नागः, पुरे क्षितिप्रतिष्ठिते । श्रीदेवीदयितः सौम्यः सोमचन्द्राऽभिधो धनी || २२१ || तत्रैव नगरे जज्ञे, जिनदत्ताऽभिधो नरः । सोमचन्द्रस्य समभूत्, प्रीतिस्तेन सहोच्चकैः ॥ २२२ ॥ गत्वा देशाऽन्तरं लक्ष्मीं समुपार्ण्य सहस्रधा । मनोरथान्पूरयिष्ये, सर्वेषां तनुजन्मिनाम् ॥२२३॥ देशाऽन्तरं गतवतश्चेन्मे भवति पञ्चता । परलोकगतेः श्रेयः, न स्यादसुमतां क्वचित् ॥२२४॥ तदस्माद्दापयिष्यामि पश्चाद्दानं सुहृत्तमात् । निर्मलः परलोको मे, यथा भवति निश्चितम् ॥२२५॥ ध्यात्वेति दश दीनारसहस्राणि सुहृत्करे । समर्प्यदमवादीत्स, द्वितीयं हृदयं भवान् ॥२२६॥ अमी देयास्त्वया धर्मे, देशान्तरगतस्य मे । मम पुण्यस्य षष्ठांशो, भूयात् तव सुहृद्वरः || २२७।। त्वन्मित्रं जिनदत्तोऽपि त्वयि देशान्तरं गते । व्यस्राणयत्सुपात्रेषु, मित्रे श्रेयः कृते श्रियम् ॥ २२८ ॥
वासनावासितस्वान्तः, स ददानः परश्रियम् । जिनदत्तोऽभवत्पुण्यभाजनं जनवर्णितः ॥२२९॥
OstaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org