________________
श्रीविनयचन्द्रसूरिविरचितम् • १०७ अप्यन्यसम्पदां दाता, प्रपापालकवज्जनः । याच्यतेऽञ्जलिमायोज्य, कटरे दानवल्गितम् ।।२३०॥ यत् त्वया परहस्तेन, दापितं द्रव्यमात्मनः । तद्भाटकेन समभूदुद्वाहस्तव भूपते ! ।।२३१।। जिनदत्तप्रिया भद्रा, रहस्येवमुवाच सा । तव पूर्वभवां पत्नी, श्रीदेवीं धिरया गिरा ।।२३२॥ जामे ! प्रियो विरक्तो मे, कारणं तन्निवेदय । सहास्यमूचे श्रीदेवी, त्वग्दोषस्तव कोऽप्यभूत् ।।२३३।। भद्रां दुःखातुरी वीक्ष्य, श्रीदेव्यूचे घृणान्विता । मा दुःखं भज हास्येन, मयाऽवादि त्वयीदृशम् ॥२३४।। सोमचन्द्रस्ततो मृत्वा, त्वमभूर्मङ्गलो नृपः । श्रीदेव्यपि तव प्राणवल्लभाऽजनि पूर्ववत् ।।२३५।। पूर्वकर्माभिलापेन, त्वत्पत्नी लक्ष्मवत्यभूत् । सुकृतं दुष्कृतं भद्र ! भुज्यते स्वयमेव तत् ॥२३६।। जयसिंहगुरोरेवं, श्रुत्वा प्राच्यं भवं निजम् । महादेव्या समं सौधमगाद् विमलवासनः ।।२३७।। ततः प्रभृति भूपालो, दानधर्मपरायणः । अर्जयन्सुकृताद्वैतं, द्वादशव्रतपालकः ।।२३८।। क्रमात् पुत्रे निजं राज्यं, निवेश्य क्षितिवासवः । गति शिवां सदेवीको, महानन्दमयीं ययौ ॥२३९।। उपतिष्ठति दातारं, दानं दत्तं परैरपि । स्वस्य दत्तस्य दानस्य, किं पुनर्वर्ण्यते फलम् ? ।।२४०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org