________________
श्रीविनयचन्द्रसूरिविरचितम् • १०५
स्वस्वामिद्रोहिणा कस्मान्, मन्त्रिणा मिथुनं हहा । कलङ्कितं कलङ्केन, न धर्मे लोभिनां मतिः ॥२०८॥ अथो नाथो विशां रोषात्, सिंहं सेवकमादिशत् । मन्त्रिणं मारयाद्र्यग्रं, समारोह्य सनन्दनम् ॥ २०९॥ इतश्च मङ्गलोऽवादीद्देव ! मन्त्री पिता मम । मुञ्चाऽमुं मा वधीस्तत् त्वं, स च पापात् पतिष्यति ॥२१०॥ सुतापतिचरित्रेण, भूपस्तेन चमत्कृतः ।
तथा चक्रे स्वदेशान्नु मन्त्री निर्वासितः पुरात् ॥ २११॥ पुर्यां सौख्येन सोऽप्यस्थात्, सप्रियो मङ्गलश्चिरम् । निष्पुत्रत्वान्नृपेणाथ, स्वपदे विनिवेशितः ॥२१२|| शीलशालीनभद्रस्य, यशोभद्रस्य सद्गुरोः । व्रतमाप्य तपस्तप्त्वा, देवभूवं नृपो ययौ ॥ २१३ ॥ कियत्यथ गते काले, महीं शासति मङ्गले । ज्ञात्वेति वणिजं क्षुद्रं, क्रुद्धास्तु प्रान्तभूभुजः || २१४|| हेलया मेलयामासुरखिलानि बलान्यमी । रुरुधुर्मङ्गलं भूपं, दैत्या इव सुराधिपम् ॥२१५|| अथ ते निर्जिताः सर्वे, युद्धे मङ्गलभूभुजा । न तेजस्तादृशां हन्त, जात्यपेक्षं विजृम्भते ॥ २१६ ॥ जितकाशी ततश्चम्पामगान् मङ्गलभूपतिः । जयकेशर इत्यस्य, समभून्नाम चाऽपरम् ॥२१७|| अन्यदोद्यानमायातं, जयसिंहं मुनीश्वरम् । आरामिकमुखाज्ज्ञात्वा तं प्रणन्तुमगान्नृपः ॥२१८॥
OSYAL
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org