________________
१०४ • मङ्गलकलशकथानकम् तदा प्राणेश ! मां मुक्त्वा, दम्भेन गतवानसि । इदानीं चित्तचौर ! त्वं, क्व याताऽसि दृशोर्मम ? ||१९७|| अथोचे मङ्गलो विद्वान्, देवादिदमभूत्प्रिये ! । अतः परं त्वया कार्यो, न विषादः कदाचन ॥१९८॥ अथ सिंहो नरेन्द्राऽन्ते, नरवेषां विधाय ताम् । नीत्वा यथाभवं वृत्तमाख्यद्भूमानुवाच च ॥१९९।। अनया पालितं शुद्धं, महाशीलव्रतं चिरम् । अहो ! मतिप्रपञ्चोऽस्या, नृशंसत्वं च मन्त्रिणः ।।२००|| सभासमक्षं भूपस्तां, प्रशंस्येति वचोऽवदत् । भज वत्से ! स्वभर्तारं, भव पुत्रवती सति ! ॥२०१।। इत्युक्त्वा पुत्रिकीकृत्य, स्त्रीवेषीकृत्य भूपतिः । धनदत्तगृहे प्रैषीद् वरेण सह तां वधूम् ।।२०२।। दशाऽहानि धनश्रेष्ठी, वर्धापनमकारयत् । सिंहोऽपि वैरिसिंहान्ते, तदाऽऽदेशात् तदा ययौ ॥२०३।। पृष्ठा क्षमाभुजा पुत्री, वृत्तं स सर्वमाऽऽख्यत । तथा पुरुषवेषत्वकारिवेषं समार्पयत् ।।२०४।। समाकयेति नन्दिन्या, महिमानमनुत्तरम् । प्रमोदाऽऽमोदसुरभिः, क्षोणीशो ध्यातवानदः ॥२०५।। अहो ! शक्तिरहो ! शीलमहो ! भक्तिः स्ववल्लभे । अहो ! कलङ्कवैकल्यमिति ज्ञात्वा महीपतिः ॥२०६।। अवन्त्यास्तां समानाय्याऽवेशयत् सवरां सुताम् । तद्वयं वीक्ष्य दृग्द्वन्द्वं, मेने साफल्यमात्मनः ।।२०७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org