________________
श्रीविनयचन्द्रसूरिविरचितम् • १०३ धृते तस्मिन् सह छात्रैस्तदैकः कोऽपि पाठकृत् । धनदत्ताय नंष्ट्वाऽथ, तं वृत्तान्तं न्यवेदयत् ।।१८६।। धनदत्तस्ततः श्रेष्ठी, भीतिव्याकुलमानसः । प्राभृताद्यमुपादाय, स्वयं राजकुलेऽचलत् ।।१८७।। इतः पुंवेषशालिन्या, मङ्गलो मालकोपरि । गृहीत्वा प्रेमसन्दर्भ, सिंहप्रकटमुच्यते ।।१८८।। प्राणेश ! निर्भयीभूय, मेऽखिलं दर्शयस्व तत् । यत्पित्रा मम तेऽदायि, वैवाहे मङ्गलक्षणे ॥१८९।। मूर्त्यन्तरं पितुः सिंहो, मत्कृते दर्शयस्व तत् । विना प्रत्यय-सङ्केतं, न प्रत्येति विचक्षणः ॥१९०|| कलशोऽप्युक्तवानेवं, यद्यसौ स्वसुरोत्तमः । प्रेष्यतां मन्दिरेऽस्माकं, यथा गच्छति वस्तु तत् ॥१९१।। एवमुक्तो गतः सिंहः, सच्चक्रे तत्पिताऽप्यमुम् । परं चित्तं भयभ्रान्तं, वीक्ष्यैनं प्रोक्तवानसौ ॥१९२॥ मा भैषीद् भद्र ! मा भैषीन्नारीरूपधो नरः । सा स्नुषा तव तत्पितृदत्तं वस्तु प्रदर्शय ॥१९३।। तथोदिते धनेनापि, नृपनामाङ्कमुज्ज्वलम् । श्रेष्ठिना तुष्टिभृत् चित्ते, भूषणाद्यमदर्शयत् ।।१९४।। सन्मान्य धनदत्तेन, प्रेषितः सिंहभूपतिः । सर्वमाख्याय ताञ्चक्रे, नारीरूपधरां पुनः ॥१९५।। त्रैलोक्यसुदरी देवी, दिव्यनेपथ्यधारिणी । पत्युः प्रणम्य पादाब्कं कृताञ्जलिरभाषत ।।१९६।।
As a
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org