________________
१०२ • मङ्गलकलशकथानकम् नृपभूर्मङ्गलं वीक्ष्य, सशरीरमिव स्मरम् । सुधाभुगिव सञ्जज्ञे, निर्निमेषविलोचनः ।।१७५।। नररूपधरश्च्छात्रान्, भक्तिपूर्वममानयत् । मुक्त्वैकं मङ्गलं नेत्रमङ्गलानां निकेतनम् ।।१७६।। राजाहरासनस्थालैः, प्रेमपात्रैरिवोदितैः । मङ्गलं मानयामास, वीक्षामासे मुहुर्दशा ।।१७७।। वीक्ष्य सन्मानमेतस्य, दुःख्यभूत्पाठकव्रजः । क्षमन्ते हन्त सोढं न, ह्येक एव प्रभाववान् ॥१७८।। अथाऽध्यापकमूचे स, कथां छात्रेण केनचित् । आख्यापयत निःशेषरसनिष्पन्दसुन्दराम् ।१७९।। छात्रैरथोचिरे स्मित्वा, यस्य सन्मान ईदृशः । स सकर्णः श्रवःपेयां, कथयिष्यति वः कथाम् ।।१८०।। अभाषिष्ट बुधादिष्टो, मङ्गलो मङ्गलं गिरा । कल्पिताकल्पिताभ्यां तु, राजपुत्र ! कथा द्विधा ।।१८१।। किं कथा कल्पिता कथ्या ? किञ्चान्या रसहारिणी ? । अथोचे राजसूः स्मित्वाऽनुभूतां कथ्यतां कथाम् ।।१८२।। अथोचे मङ्गलः स्फीतं, स्वकीयं चरितं ततम् । विशालाजलयोगेन, स्वादिष्टैर्मोदकैर्वरम् ।।१८३।। निशम्य भूपभूरेवं, क्रोधोधुर इवाऽवदत् । अरेरे ! कोऽयमत्यन्तमसम्बद्धप्रलापकः ॥१८४।। अस्माकं कुरुते मन्त्री, किमिदं जनगर्हितम् ? । धत्तैतस्य न कोऽप्यस्ति, किमु दूरं भटा गताः ? ॥१८५।।
Asya9
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org