________________
श्रीविनयचन्द्रसूरिविरचितम् • १०१ त्रैलोक्यसुन्दरं ज्ञात्वा, पुत्रं चम्पाधिपोद्भवम् । भूत्याऽभ्येत्य महापुरू, प्रावेशयदिलापतिः ॥१६४|| चापाऽसिधेनुप्रमुखं, बिभ्राणं करपङ्कजे । त्रैलोक्यसुन्दरं दृष्ट्वा, राजा मेनेऽमरं भुवि ॥१६५।। सन्मानपूर्वकं सौधं, समर्पयदिलापतिः । तत्राऽस्थात्सोऽपि जालस्थो, वीक्षमाणः पुरश्रियम् ॥१६६।। अन्येधुर्भूपभूः पाथ:पानार्थं पथि गच्छतः । हयांस्ताानिव प्रेक्ष्योपालक्षयदसौ सुधीः ।।१६७।। अथाऽऽदिक्षन्नरान्नैकान्, कस्यैते वरवाजिनः ? । इति ज्ञात्वा समायातास्ते गत्वा पुनरूचिरे ॥१६८।। स्वामिन् ! मङ्गलकुम्भस्य, वाजिनो दिव्यरूपिणः । अमुना सममायाताश्चम्पापुर्या महात्मना ॥१६९।। श्रुत्वेदं स पुन: प्रैषीत्, शुद्धये तान्स्मरोद्धरः । तदादेशात् तदा गत्वा, समाचख्युः सविस्तरम् ।।१७०|| धनदत्तसुतः स्वामिन् !, मङ्गलो मङ्गलालयः । कलाभ्यासं दधानोऽस्ति, मध्यगश्च्छात्रपर्षदि ।।१७१।। श्रुत्वेति सिंहमूचे सा, तात ! क्रेया महाहयाः । त्वया निमन्त्र्यतामत्र, स गुरुः पाठकाग्रणीः ॥१७२।। ततो ज्ञात्वा मनोभावं, याच्यन्ते वाजिनो मया । मनोभावाऽपरिज्ञाने, प्रार्थना हि त्रपावती ॥१७३।। सिंहेनापि प्रगे गत्वोपाध्यायः सन्निमन्त्रितः । सोऽप्याजगमिवांस्तत्र, छात्रवर्गसमन्वितः ॥१७४।।
Disce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org