________________
१०० • मङ्गलकलशकथानकम् सेत्यूचे सिंहनृपति, प्रीतिपात्रं पितुर्मम । मदर्थं पृथिवीनाथं, विज्ञ ! विज्ञपय द्रुतम् ॥१५३।। यदेव ! भवतां पुत्री, दैवतो दोषभूरभूत् । सैकां विज्ञप्तिकां नाथ ! करिष्यति विनिश्चितम् ॥१५४।। आमेत्युक्तेऽथ तेनोच्चैविज्ञप्तः पृथिवीपतिः । तामाहूय नृपोऽवादीत्, पुत्रि ! ब्रूहि यथारुचि ॥१५५।। वसुधानाथ ! मे देहि, नरवेषमिति स्फुटम् । निगद्य विररामोच्चैर्भाषिता नाधिकं वदेत् ।।१५६।। श्रुत्वेति नृपतिर्दध्यौ, गुरुकार्येण केनचित् । भवितव्यं विचार्येति, तथेत्यूचे सुतां प्रति ।।१५७|| तस्या रक्षाकृते सिंहं नृसिंहोऽथ समादिशत् । यथाऽसौ लक्ष्मभूर्न स्याद्दुरुच्छेद्या कलङ्किता ॥१५८॥ नारी नियमिता तावद् भवेन्नेत्रप्रियङ्करी । चैत्यस्य स्वकुलस्यैव, पताकेव विभूषणम् ॥१५९।। भूयोऽपि न्यगदद्राजा, वत्से ! स्वच्छाशये ! तव । मानसे भासते यच्च, तद् ब्रूहि त्वमनाकुला ||१६०|| प्रस्तावज्ञा जगादैवं, सैषा रेखा महाधियाम् ।। अनुज्ञाता त्वया यामि, विशाला नगरी वराम् ॥१६१।। अथोवाच नृपो वत्से !, भव शीलवती परम् । शाश्वतं मण्डनं शीलं, कीर्तेर्मूलं निकेतनम् ॥१६२॥ अथ प्रणम्य भूपाल-पादांस्त्रैलोक्सुन्दरी । वेगादगादवन्ती च नरवेषमनोहरा ॥१६३।।
Dislee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org