________________
श्रीविनयचन्द्रसूरिविरचितम् • ९९ गुरुरप्यष्टमीयुक्तस्त्यज्यते शुभकर्मणि । मन्दोऽपि शस्यते तज्ज्ञैश्चतुर्दश्यामुपागतः ॥१४२॥ वरमिन्द्रियहीनत्वं, वरं दारिद्र्यसेवनम् । वरं बन्धो वरं मृत्युर्न पुनः कुष्ठसङ्गमः ॥१४३।। भूमानाऽऽकर्ण्य तक्यं, कर्णयोर्विषभोजनम् । उवाच गोचरं नेया, न दृशोर्मम पापिनी ॥१४४।। राजाऽऽदेशाज्जनन्याऽपि, साऽवज्ञाता व्यचिन्तयत् । उदियाय हहा ! दैवात्, क्व कलङ्कनवाङ्करः ? ।।१४५।। प्रियो लब्धोऽप्यलब्धोऽभून्मम भाग्यविपर्ययात् । दरिद्रस्य करे चिन्तारत्नं तिष्ठेत् कियच्चिरम् ? ॥१४६।। पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे । अधुना तत्फलं प्राप्तं, परिपाकेन सुन्दरम् ।।१४७।। इति चिन्तामरुद्भ्रान्ता, जाता त्रैलोक्यसुन्दरी । मोदकाद्युक्तमस्मार्षीत्, पत्युरिष्टोपदेशवत् ॥१४८।। ध्यात्वेति मातरं प्रोचे, मातः ! कारय दर्शनम् । पित्रा सह यथा वक्ष्ये, किञ्चिदीप्सितमात्मनः ।।१४९।। अनाकर्येति तद्वाक्यं, जाता मातापि मौनिनी । अजितानां दुरन्तानां, कर्मणामीदृशी गतिः ॥१५०|| साऽऽख्यन्न दीनवदना, जनन्येत्यपमानिता । अपमानं हि सह्येत, किं पित्रोः प्रेमशालिनोः ॥१५१।। आख्यया सिंहनामानं, राजमानं मनीषिणम् । नत्वाऽसावग्रतस्तस्थौ, योजिताञ्जलिकुड्मला ।।१५२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org