________________
९८ • मङ्गलकलशकथानकम् समाकर्ण्य वणिग् मेने सुतं सर्वश्रियां पदम् । अगोपयद् गृहस्यान्तः, पञ्चाश्वीमपि दूरतः ।।१३१।। अगारं कारयाञ्चक्रे, सप्राकारं सतोरणम् । तया रथस्थया लक्ष्म्या, लब्ध्यया मन्त्रिभूभुजोः ।।१३२।। एषोऽन्येधुरनुज्ञाप्य, मङ्गलो मङ्गलाशयः । अपाठीत्सकला विद्या, विद्याहीनः पशुर्यतः ॥१३३।। इतश्च मन्त्रिणाऽनेन, तनयोऽस्तनयेन सः । कृतमङ्गलनेपथ्यः, प्रेषितो वासवेश्मनि ॥१३४|| तं पल्यङ्कसमारूढं, प्रेक्ष्य प्रोचे नृपाङ्गजा । हहा ! क्व मे प्रियश्चारुश्चलत्कर्पूरपादपः ? ॥१३५।। क्वायं मृतकदुर्गन्धिरित्युक्त्वा तल्पमत्यजत् । तेनोच्चैर्धार्यमाणाऽपि, बलाद् भीता सहस्रधा ॥१३६।। बहिर्गत्वा स्ववृत्तान्तं, तं सखीनां पुरोऽगदत् । ताः प्रोचुर्नाऽविशत्कोऽपि, किन्तु तेऽस्ति सखि ! भ्रमः ।।१३७|| साख्यद् भ्रान्ता भवन्त्योऽपि, स्थाताऽस्म्यत्रैव सर्वथा । तदुक्तं तथ्यमज्ञायि, तं दृष्ट्वा ताभिरादरात् ।।१३८।। अमात्योऽपि प्रगे गत्वा, पूच्चकार नृपाग्रतः । देव ! दैवेन मुष्टोऽस्मि, दुर्जयो हि विधेविधिः ।।१३९।। पृथिवीशक्र ! मत्पुत्रः, तव जामातृतां गतः । तप्पिष्यतीति मे वाञ्छाद्रुमं दैवानलोऽदहत् ॥१४०।। त्वत्सुताकरयोगेन, कुष्ठी मे नन्दनोऽजनि । पूर्णेन्दुसुन्दरं वासो, नीली मलिनयेन्न किम् ? ॥१४१।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org