________________
श्रीविनयचन्द्रसूरिविरचितम् • ९७
एवं राजाङ्गजा श्रुत्वा, सहास्यं हृद्यचिन्तयत् । दूरे पुरी च सा कान्तः, कथं संस्मृतवानिह ? ॥१२०॥ यत्तन्मातृकुलं तत्र, तदा सम्भाव्यते ह्यदः । ध्वात्वेति भूपतेः पुत्री, ताम्बूलं प्रेयसे ददौ ॥ १२१ ॥ पौनःपुन्येन धनभूः सञ्ज्ञितो नेत्रसञ्ज्ञया । मुहुर्विवलितग्रीवं, निर्ययौ वासवेश्मनः ॥१२२॥ नीत्वाऽवन्तीपथं गूढं, तत्तथा दर्शितं नरैः । तुरङ्गादिकमुत्प्रेक्ष्य, स तुतोष सविस्मयः ॥१२३|| श्रेष्ठिसूर्योजयामास, चतुरस्तुरगान् रथे ।
पञ्चमं पृष्ठिभागे चाऽपृच्छद् ग्रामादिनाम च ॥ १२४|| तान्सन्तुष्य धनैर्बाढं, गिरा सम्भाष्य धीरया । स चचाल स्वयं स्वीयां, नगरीं प्रति सप्रभः ॥ १२५ ॥ एत्याऽवन्तीं ततो वेगाद्, वाजिभिर्वायुवाजिभिः । स्वधाम प्रविशन्नेष, पितृभ्यामिति भाषितः ॥ १२६ ॥ कथमैषि परागारे ? नास्ति मार्गस्य निसृतिः । अमुं वणिग्जनागारं, राजपुत्र ! न वेत्सि किम् ? ॥१२७॥ पित्रोरित्युक्तिमाकर्ण्य, मुदितो धनदत्तसूः ।
उत्तीर्य स्यन्दनात्पादौ, ववन्दे भक्तिमेदुरः ॥ १२८।।
अथोत्थाय पितुः कण्ठमवलम्ब्याऽब्रवीदिति । न जानासि कथं तात !, स्वं पुत्रं मङ्गालाभिधम् ? ॥१२९||
तौ मत्वा सुतमानन्दकन्दं रुरुदतुस्ततः ।
ताभ्यां पृष्टः स्ववृत्तान्तं, मूलादारभ्य सोऽभ्यधात् ॥१३०॥
Pista
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org