________________
९६ • मङ्गलकलशकथानकम् सोऽप्यवादीदिति क्षमापं, यदिदं देव ! सुन्दरम् । पञ्चवल्लभवाजिभ्यो, वाजिपञ्चकमर्पय ।।१०९।। तथा कृते नरेन्द्रेण, महेन सुमहीयसा । चचाल श्रेष्ठिसूः साकं, तया राजीवनेत्रया ।।११०॥ गच्छन्नभिमुखं मन्त्रिमन्दिरं धनदत्तसूः । गिरं सुधाकिरं पौरीं शुश्राव श्रुतिहारिणीम् ॥१११।। कृष्णः कृष्णः सुराधीशः, सर्वाङ्गीणविलोचनः । पुराणपुरुषो ब्रह्मा, शङ्करोऽमटवाहनः ।।११२॥ अयं चम्पकपुष्पाभो, विस्मेरनयनद्वयः । नवीनो गजमारूढः, किमेभिरुपमीयते ? ॥११३।। युग्मम् || इति शृण्वन्वचः प्रापदालयं मङ्गलो वरः । जायापती अभूतां च, क्रमात्पल्यङ्कसङ्गिनौ ।।११४।। इतो मन्त्रिनरैरन्तरङ्गिरङ्गविचेष्टितैः । सञ्जितः स्वं वचः पाहि, याहि याहि निजाऽऽश्रयम् ॥११५।। तनूचिन्तामिषं कृत्वा, यावद्यात्येष मन्दिरात् । तावदात्तपयःपात्राऽन्वयात् कुलवधूर्नवा ।।११६।। कृताङ्गचिन्तं चिन्तार्त्तमालोक्य प्रियमभ्यधात् । क्षुधातृड्भ्यां किं कान्त ! त्वं, बाध्यसे स तथाऽवदत् ।।११७|| दास्या मातृगृहानीतान्, मोदकान्वारि हारि च । भुञ्जानः प्रियया साकं कलश: च्छन्नमाख्यत ।।११८।। मोदकानां यद्यमीषां, स्यादवन्त्यम्बुसङ्गमः । तदा मोदकता काचित्, परिस्फुरति नूतना ॥११९।।
Asxag
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org