________________
श्रीविनयचन्द्रसूरिविरचितम् • ९५ क्वायं समागमोऽप्यत्र ?, क्वेदृशी स्थितिरुत्थिता ? । तूलपूलकवत् क्वेदं ? वातेनाऽऽनयनं मम ? ॥९८।। क्व सा तातस्य सद्वाणी, ? क्वेयं गरलसोदरी ? । कुल्या इव मम क्वैते ?, पुंसो निधनरक्षकाः ॥९९।। विचार्यैवं चिरं चित्ते, प्रोचे सचिवमुच्चकैः । कारयिष्यामि, तेऽभीष्टं, ममाऽपि कुरु किञ्चन ॥१००। तेनोचे किं तदित्युक्ते, सोऽप्यूचे यन्महीश्वरः । मङ्गलेषु प्रदत्ते हि, तन्मे देयं गुणानघ ! ॥१०१।। तदशेषमुज्जयिन्यां, प्रहेयं गुप्तपूरुषैः । स्नेहस्य लोभतो लोकैरुच्छिष्टमपि भुज्यते ।।१०२।। आमेति मन्त्रिणा प्रोक्ते, शुभवारे शुभे दिने । वर्णकोद्वर्णकविधौ, वधूभिर्विहिते सति ॥१०३।। स्तूयमानगुणग्रामो, बन्दिवृन्दारकेश्वरैः । वाराङ्गानाकुलस्त्रीभ्य, उच्चरद्धवलध्वनिः ॥१०४।। वादित्राणां महाघोषैर्बधिरीकृतविष्टपः । गजारूढः कुमारोऽसौ, विवाहाऽऽवासमाऽऽसदत् ॥१०५।। युग्मम् ।। ध्वनत्सु वर्यतूर्येषु, हस्तालेपे कृते सति । शुभलग्नोदये जाते, सहर्षो धनदत्तभूः ।।१०६।। त्रैलोक्यसुन्दरीकन्यामुपयेमे तदाज्ञया । चतुर्थे मङ्गले राजा, ददावस्मै हयादिकम् ।।१०७।। युग्मम् ।। तथापि सुन्दरीपाणिं, जामातरि न मुञ्चति । राजा सस्नेहमाचख्यौ, वत्स ! याचस्व वाञ्छितम् ॥१०८।।
OISIO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org