________________
९४ • मङ्गलकलशकथानकम् मन्त्री चिन्ताञ्चितं चैनं तमवग् वाक्यविवरः । कार्यं भद्र ! कुरुष्वैकं त्वया निष्पद्यते यतः ॥८७॥ कार्यं किमार्य ! सत्कार्यमित्युक्ते तेन सोऽब्रवीत् । विवाह्य भूभुजः पुत्र मत्पुत्राय प्रयच्छ तत् ॥८८॥ कलशोऽप्याह नेदृक्षं, युज्यते कर्तुमङ्गिनाम् । दारदानात्परं दानं, ग्रन्थेष्वपि निशम्यते ॥ ८९॥ अथ रुष्टोऽवदन्मन्त्री, यद्येवं न करोषि रे ! । तदा त्वां मारयिष्यामि मारैर्नवनवैरहम् ॥ ९० ॥ अथ प्रोवाच निर्भीक: कलशः कोमलस्वरः । विधेहि वाञ्छितं भद्र ! यत्ते सङ्गतिमङ्गति ||११|| अथाऽऽकृष्य कृपाणं स, निष्कृपः प्राह मन्त्रवित् । स्मरेष्टां देवतां कुल्यां, भव त्वं सम्मुखः स्वयम् ॥९२॥ सोऽप्यूचे कलशो मेऽर्हच्चरणाः शरणं चिरम् । जिनोपदिष्टो धर्म्मश्च, पापतापनिपातकृत् ॥९३ ||
अन्तरङ्गा नराः प्रोचुः, प्रणिपत्याऽथ मन्त्रिणम् । अयं दुग्धमुखो बालो, निरागा हन्यते कथम् ? ॥९४॥ मा वधीरवधिं स्थैर्य-धैर्याद्यैः सुगुणैरमुम् । स्वार्यमेवं निवार्योचुः कुमारं प्रति सादरम् ॥ ९५|| यदसौ भाषते मन्त्री, तत्कुरुष्व गुणानघ ! । जीवन्नरो भद्रशतं, पश्येदिति वचः स्मर || ९६॥ तैरेवं बोधितो दध्यौ, नितरां मङ्गलः सुधीः | क्व विशाला विशालाख्या, नगरी श्रीगरीयसी ? ॥९७॥
Pista
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org