________________
श्रीविनयचन्द्रसूरिविरचितम् • ९३ वातेन तेन जातेनोत्पाट्य तृतीयके दिने । चम्पाया निकटाऽटव्यां, व्यमोचि श्रेष्ठिनन्दनः ॥७६।। मुक्तमात्रः स तत्राथ, पालीतालीजलाविलम् । वेल्लत्कमलिनीखण्डं, स ददर्श महासरः ॥७७।। सुधारसरसं हारि, वारि पाणिपुटात्पपौ । वटं पालीकिरीटाभमारुरोह, झटित्यसौ ।।७८।। इतश्च सविताऽऽरूढः, प्रतीचिनाऽद्रिचूलिकाम् । तदुःखमक्षमो द्रष्टुं, मित्रे हि घटतेऽखिलम् ॥७९॥ कलशो वटमारूढो, दिशां जालं विलोकयन् । उदीच्यां दिश्यवैक्षिष्ट, प्रज्वलन्तं हविर्भुजम् ।।८०॥ किञ्चिविलीनशोकोऽसौ, निरीक्ष्योत्तीर्य च क्षणात् । मन्दुरारक्षकाऽभ्यर्णे, ययौ शीतार्तविग्रहः ।।८१।। वीक्ष्य तैरश्वपालैः स, तापितः पावकाचिषि । सहास्यं यामिनी सर्वां स्फीतशीतामवाहयत् ।।८२।। विभातायां विभावाँ, ते सर्वे वाजिपालकाः । वायहन्तो हयानुच्चैर्दूरादूरतरं ययुः ।।८३।। अथ तेषु प्रयातेषु, प्रगे मन्त्री कथञ्चन । संगोप्य बालकं गेहं, निन्ये लब्धनिधानवत् ।।८४|| स स्वयं स्नानभोगादि, छन्नं छन्नमकारयत् । निर्गच्छन्तं बहिर्गेहाज्जवादेनं न्यवर्त्तयत् ।।८५।। नगरी-ग्राम-देशादि, पृच्छतोऽस्य मुहुर्मुहुः । न किञ्चिद् वक्ति मन्त्रीश, एडमूक इवापरः ॥८६।।
DISee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org