________________
९२ • मङ्गलकलशकथानकम् सविषादोऽवदन्मन्त्री यद्येवं देवि ! तत्परम् । नरमानय यः कन्यां, भाटकेनोपयच्छते ॥६५॥ हस्ते कृत्य सुतां राज्ञः, समर्प्य मम नन्दने । यथा प्रयाति तब्रूहि, वरं मम मनोहरम् ॥६६।। भूयोऽप्युवाच सा देवी, प्रयुज्याऽवधिवैभवम् । यः कश्चन बहि: पुर्याः, शीतार्तोऽभ्येति बालकः ॥६७।। स युष्मन्मन्दुरारक्षैर्दक्षैरग्नेष्टिकास्थितैः । तपद्भिः छन्नमानेय, इत्युक्त्वा देव्यगान्नभः ॥६८।। आहूय मन्दुरारक्षानमात्य इदमब्रवीत् । तपतां भवतां वह्नौ, योऽभ्येति निशि बालकः ॥६९।। स मेऽन्तिकं समानयेस्तृतीयेऽह्नि दिनादतः । इत्याऽऽदिश्य च तान् मन्त्री, विससर्ज दिवात्यये ॥७०॥ विज्ञायाऽवधिना पुत्रीयोग्यं मङ्गलमद्भुतम् । अवन्त्यामगमद् देवी, तमारामस्थमैक्षत ॥७१।। मध्येव्योम ततः स्थित्वा, देव्यवादीदिति स्फुटम् । सुतः सैष कुमारी यो, भाटकेनोपयंस्यते ॥७२।। मङ्गलोऽपि निशम्येदं, मानसे ध्यातवानिति । किमपूर्वमिदं व्योम्नि, श्रूयते देवतोदितम् ।।७३।। भवताद्वन्तुराऽऽख्यास्ये, विचिन्त्येति गृहं गतः । तत्सर्वं व्यस्मरत् तस्य, नान्यथा भवितव्यता ।।७४।। द्वितीयेऽपि दिने श्रुत्वा, तन्नाऽऽख्यदसको पितुः । उद्यानाद्यावदभ्येति, तावद् वायुर्ववौ दिवि ॥७५।।
Dislam
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org