________________
श्रीविनयचन्द्रसूरिविरचितम् • ९१ त्वत्पुत्राय मया पुत्री, दत्ता त्रैलोक्यसुन्दरी । उत्सुक्यो भव सबुद्धे ! विवाहक्षणकर्मणि ॥५४।। विज्ञाय दूषितं रोगनिर्मोकेन स्वनन्दनम् । कापट्योत्तरमकरोदिदं सचिवपुङ्गवः ॥५५।। क्व भवान् जगतीनाथ ! ? क्व चाहं तव कर्मकृत् ? । क्व पुत्री भवतो रम्भा-ऽनुकाराऽनुपमश्रिया ? ॥५६।। क्व च मे नन्दनः सर्वैयूँनः स्थैर्यादिभिर्गुणैः । स्वर्णपित्तलयोर्योगो, न कदापि हृदो मुदे ॥५७।। अपरं तव पर्णेषु, चूर्णं दातुमपि क्षमः । नाऽस्म्यहं जगतीनाथ ! का वार्तोद्वाहमङ्गले ? ।।५८।। नरेशस्तं करे धृत्वा, स्मितपूर्वमवोचत । कृतज्ञ ! सचिवावश्यमत्रार्थे मा वदः परम् ।।५९।। आमेति सचिवः प्रोच्य, गत्वा निजनिकेतनम् । ऊरीकृत्य तपो गोत्रदेवीमाराधयत्तराम् ॥६०॥ स तथा विदधे भोगं, कर्पूराऽगुरुचन्दनैः । स तथा चक्रिवान् भूरि, तपः प्रकृतिदुस्तपम् ॥६१।। स तथा वासनां शुद्धां, भूयो भूयो व्यवर्द्धत । गोत्रदेवी यथा स्माऽऽह, सन्तुष्टाऽस्मीति तत्पुरः ॥६२|| युग्मम् ॥ मन्त्र्यूचे देवि ! तुष्टा चेत्, कुरूल्लाघं ममात्मजम् । साऽप्यूचे सूनुना जन्मभोग्य एव महाऽऽमयः ॥६३।। तस्याऽपनयने भद्र !, समर्था नास्मि सर्वथा । बन्धो निकाचितो यस्मात्, वेद्यस्तीर्थङ्करैरपि ॥६४।।
ovato
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org