SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ९० • मङ्गलकलशकथानकम् किञ्चित् किञ्चत् कलाभ्यासं, कलशस्य वितन्वतः । आनन्दोद्रेकसम्पूर्णा, भूयांसो वासरा ययुः ॥४३।। इतश्चम्मापुरी रम्या, कृताऽऽकम्पाऽलकाश्रियः । द्विधापि नामधामभ्यां, तत्र राड् गुणसुन्दरः ॥४४।। गुणावली प्रिया तस्य, तयोस्त्रैलोक्यसुन्दरी । पुत्री कल्पलतास्वप्नसूचिताऽजनि सन्मनाः ।।४५।। कुमारी यौवनोद्यान-करिणीमवलोक्य ताम् । अन्वेष्टुं वरपुन्नागान्, मनश्चक्रे क्षमापतिः ।।४६।। सामन्तो मन्त्रिपुत्रो वा, चक्रवतिसुतोऽथवा । खेचर: क्षितिचारी च, वा कोऽमुष्याः भविष्यति ? ॥४७॥ ध्यात्वेति भूपतिः स्माऽऽह, हंहो सभ्या ! महाधियः । पुत्रीयोग्यो वरः कोऽपि, श्रुतो दृष्टोऽथवोच्यताम् ॥४८।। अथोचुस्ते महीपालमभयो नः प्रदीयताम् । अस्मन्मतितरी युष्मच्चिन्ताम्भोधौ तरत्वलम् ।।४९।। आमेत्युक्ते नरेन्द्रेणाऽभ्यधुः सभ्या महाधियः । देवाऽस्ति भवतामेका, पुत्री पुत्र इव प्रिया ॥५०|| तन्नो न स्वदते कर्तुं दूरे वैवाहिकी क्रियाम् । एतत् तुल्यो वरः कोऽपि, श्रुतो दृष्टो न हि क्वचित् ॥५१॥ तदाऽऽत्ममन्त्रिपुत्राय, पवित्राय गुणोत्करैः । भवता दीयतां पुत्री, सुखेन स्थीयतां चिरम् ।।५२।। आमेति प्रतिपद्योच्चैर्भूपतिः सदसि स्थितः । समक्षं सर्वलोकानाममात्यमिदमब्रवीत् ॥५३॥ O/CO Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy