________________
श्रीविनयचन्द्रसूरिविरचितम् • ८९
साऽसूत समये सूनुं श्रेष्ठी स्वप्नानुसारतः । सुनोर्मङ्गलकलश, इत्याख्यामुत्सवे व्यधात् ॥३२॥ लाल्यमानः सधात्रीभिः, वर्द्धमानो दिने दिने । अष्टवत्सरदेशीयो, जज्ञे पितृमनोरथैः ||३३|| प्रातः श्रेष्ठी स्वयं याति जिनानामर्चनाकृते । पुष्पादिकं समानेतुं, मलये तरुमालिनि ||३४|| पित्रा निषिद्ध्यमानोऽपि, परेद्युः श्रेष्ठिनन्दनः । पुष्पवाट्यां जगामासौ, बाल्ये चापल्यमद्भुतम् ||३५|| तं बालं धनदत्तस्य, ज्ञात्वा मलयकस्ततः । अप्रीणात् फलसन्दोहैः, पूज्या हि धनिनन्दनाः ||३६|| गृहमेधी ततो गेहमागत्य जगतां पतेः । अर्चां रचितवानेष, सोऽपि पुष्पाद्यमार्पयत् ||३७|| एतन्नित्यं वितन्वानोऽन्येद्युस्तातं व्यजिज्ञपत् । अहमेव समानेष्ये, पुष्पादि मलयान्ननु ||३८| धनदत्तोऽपि तं मेने, विनयं तनुजन्मनः । विनीतानां हि विज्ञप्तं को नाम नहि मन्यते ? ||३९||
अन्येद्युर्धनदत्तोऽथ, मालिकं प्रत्यभाषत । अस्य बालस्य सस्नेहं, सारा कार्या दिवानिशम् ||४०|| मया प्रहरके मुक्तस्त्वदीये त्वेष बालकः । अर्पणीयं मनोहारि, पुष्पादिकमतः परम् ॥४१॥ इत्युक्तं श्रेष्ठिनः श्रेष्ठं, मालिकस्तत् तथाऽकरोत् । सदाऽऽदिष्टप्रसादा हि भवन्ति किल सेवकाः ॥४२॥
P5XT9
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org