________________
८८ • मङ्गलकलशकथानकम् पतिव्रतेऽन्तरायोऽस्ति, किञ्चित्कर्म पुरातनम् । सुता येन न जायन्ते, मनोरथकथाऽधिपाः ॥२१॥ उवाच सत्यभामेश ! खिद्यसेऽत्र कथं मुधा । सुकरे कर्मणि प्रायः, खेदं भजति मूढधीः ।।२२।। परिणीतासु चान्यासु, कन्यासु तनयास्तव । बहवोऽपि भविष्यन्ति, मौक्तिकानीव शुक्तिषु ॥२३।। अवादीत्सत्यभामां स, चारु नो भाषितं त्वया । त्वां विना गृहिणी नान्या, भवेदत्र भवे मम ॥२४|| त्वदङ्गसम्भवाः पुत्राः, प्रीणयन्ति मनो मम । तृष्णार्तं चातकमिव, घनस्यादिमबिन्दवः ।।२५।। कथ्यतां मम पुत्रार्थमुपायः कोऽपि वल्लभे ! । यतेऽहं येन भावेनोपायादर्थः प्रसिद्धयति ।।२६।। साऽप्यूचे देव ! यद्येवं, देवं पूजय तीर्थपम् । देहि दीनेषु सद्दानं, पात्राऽपात्रविचारणात् ।।२७।। श्रुत्वेति श्रेष्ठिपुन्नाग, स चकार जिनार्चनाम् । चमत्कारि ददौ दानं, श्रद्धया दययाऽनिशम् ।।२८।। अस्य प्रकृष्टया धर्मचेष्टया शासनेश्वरी । रञ्जिता वाञ्छितं तस्य, यथाकाममशिश्रिणत् ।।२९।। साऽथ गर्भावतारस्य, निशायां सुखशायिनी । स्रग्भिः श्रीभिरिवाकीर्णं, कामकुम्भं व्यलोकत ॥३०॥ स स्वप्नः प्रातरुत्थाय, कान्ताय कथितस्तया । स निशम्येदमाचख्यौ, प्रिये ! भावी सुतस्तव ॥३१॥
Sixce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org