________________
श्रीविनयचन्द्रसूरिविरचितम् • ८७ आशावल्लीलसवंशो, गोत्रस्त्रीपाणिदर्पणः । शरणं वार्द्धके प्राप्ते, नन्दनो गात्रचन्दनः ।।१०।। इति चिन्तानिशाचर्या, ग्रस्यमानं विलोक्य तम् । अभाषिष्ट वचश्चारु, सत्यभामा मिताक्षरम् ।।११।। निःश्वासधमनीयोगाच्चिन्तासन्तानकाञ्चनम् । ताप्यमानं मनो मूषासङ्गे विज्ञायते मया ॥१२॥ स्वामिन् ! मलिनिता केयं, तव वक्त्रे प्रसर्पति ? । हृदि काष्ठोद्भवस्योच्चैश्चिन्ताग्नेधूमपङ्क्तिवत् ॥१३।। अपमानं कृतं केन ? किमु प्राणाधिदैवत ! । किमाऽऽज्ञाखण्डनं स्नेहान्मादृशैर्विहितं तव ? ॥१४॥ सोऽप्यूचे पृथिवीपालप्रसादादपमाननम् । मम कर्तुं सुरेन्द्रोऽपि, नालमन्येषु का कथा ? ॥१५।। मित्रं मन्त्री, प्रियो बन्धुस्त्वमेव मम जीवितम् । त्वत्कृतं खण्डनं शङ्के, किमाज्ञायाः सुलोचने ! ॥१६।। सत्यभामा पुनः स्माह, स्थितं सौख्येतरं हृदि । गोपायसे कथं नाथ ! वचनैरतिपेशलैः ? ॥१७॥ नाथ ! दुःखार्णवे मग्नमिव चित्तं तवेक्षते । वृत्तान्तकथनेनाशु, संविभागं प्रयच्छ मे ॥१८॥ अथ श्रेष्ठीत्यभाषिष्ट, यदुःखमधिकं मम । सत्यमेतत्कलत्रादौ, कथितं हि लघूभवेत् ।।१९।। दृष्ट्वा स्तनंधयानङ्के, पित्रोरुल्लापतत्परान् । मच्चित्तं कौतुकाऽऽकृष्टं, दुःखमावहते भृशम् ।।२०।।
Side
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org