________________
३. श्रीविनयचन्द्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥
अस्यैव जम्बूद्वीपस्य, मुख्यस्य मुखमण्डने । अवन्ती नाम नगरी, जयन्ती स्व:पुरीं श्रिया ।।१।। वैरिसिंहो नृपस्तत्र, वैरिवारणदारुणः । देवी सोमानना तस्य, सोमचन्द्रेति विश्रुता ॥२॥ धनदत्ताभिधस्तत्र, श्रेष्ठी श्रीद इव श्रिया । सत्यभामा प्रिया तस्य, सती शान्ता त्रपावती ।।३।। अन्येधुरपनिद्रोऽसौ, सुमना क्षणदाऽत्यये । इति ध्यातुं समारेभे, चिन्तासन्ताननाटकम् ।।४।। गृहवित्तानुमानेन, मया त्यागः कृतोर्विषु । राजप्रसादादभवं, समस्तजातिमण्डनम् ।।५।। एतन्ममास्ति निःशेषं, सफलं पुण्ययोगतः । परं कुलसरोहंसो, नास्ति सूनुः प्रशस्तधीः ॥६।। यथा वृष्टिं विना सस्यं, यथा मूलं विना तरुः । यथा गुरुं विना विद्या, यथा धर्मो दयां विना ।।७।। यथा ज्ञानं विना तत्त्वं, यथा नीति विना धनम् । तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् ।।८।। युग्मम् ।। को नाम नायको भावी, सगुणो मे कुलश्रियः । यदाधारे स्फुरन्त्युच्चैः मुक्तास्त्रासविवजिताः ।।९।।
loyag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org