________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् . ८५ ध्यात्वैवं तौ सुतं राज्ये न्यस्य शस्यतमाशयौ । दत्त्वा दानं गुरोस्तस्य पार्श्वे जगृहतुव॒तम् ।।३९०।। अधीतपूर्वी सिद्धान्ते सकले कलशः सुधीः । सूरिणा स्वे पदे न्यस्तश्चिरं व्रतमपालयत् ।।३९१।। मृत्त्वानशनपूर्वं च ब्रह्मलोके सुरोऽजनि । त्रैलोक्यसुन्दरी चापि मृत्वाऽत्रैव सुरोऽजनि ॥३९२।। ततश्च्युतौ नरीभूय यास्यतस्तौ सुरालयम् । भूयोऽपि मानवीभूय यास्यतस्तौ शिवालयम् ॥३९३।।
Slovan
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org