________________
८४ • मङ्गलकलशकथानकम्
सोमचन्द्रस्ततश्च्युत्वा नृचन्द्र ! त्वमभून्नृपः । श्रीदेवी भवतश्चाभूद् देवी त्रैलोक्यसुन्दरी || ३८०।। भवतान्यभवे भाग्यभूतिः परविभूतिभिः । यदार्जि स्फूर्जितात् तस्य तवासौ भृतिपत्न्यभूत् ||३८१|| तदा तदालं यद्देव्या स्मितेनोक्तं सखीं प्रति । जवादुत्तारितं यत्तु तस्येदृक् कर्मणः फलम् ॥ ३८२॥ देव्या अपि कलङ्कस्य भवनाभवने तदा । यदभूतां महीनाथ ! प्रत्यक्षं तत् तवाप्यदः ||३८३|| परिपूर्णं पर्यपालि शीलं शालिगुणालि यत् । तत्फलं विद्धि धात्रीश ! पुनर्वं सङ्गमोऽद्भुतः ||३८४|| श्रुत्वैवं मङ्गलघटदेव्यौ मूर्च्छान्निपेततुः । प्राग्भवं पाणिस्थमिव तेन सस्मरतुश्च तौ ||३८५ ॥
चन्दनाद्यैरुपचारैराश्वस्योत्थाय दध्यतुः ।
की फलमनल्पीयोऽभूदल्पस्यापि कर्मणः || ३८६ ॥ यद्वा विषयलवस्यापि कर्म मारणमद्भुतम् । अपि वह्निस्फुलिङ्गस्य कर्म दाहकमद्भुतम् ||३८७|| गृहस्थतां पालयतोर्यदीदृग् नौ व्यजृम्भत । तन्न जानीवहे यन्नौ भावि राज्यं प्रशासतोः ॥ ३८८|| तन्मोक्ष्यतेऽवनीराज्यं दीक्षाराज्यं ग्रहीष्यते । सप्ताङ्गं पूर्वमवरं द्वादशाङ्गं परं वरम् ॥३८९॥
5429
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org