________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् . ८३ शल्यायमाना याः सन्ति मद्देहे स्मरभल्लयः । कान्तायस्कान्तमणिवत् ताः समाकृष सङ्गमात् ।।३७०।। अथोचे सोमचन्द्रस्तां किं कुवृत्त्या कलङ्क्यते । निष्कलङ्कं कुलं स्वीयं मदीयं च महाशये ! ॥३७१।। मदनोचे मा स्म वादीरीदृक् सम्बोधनावचः । तवोपरि मृतैवास्मि यदीदृग् न करिष्यसि ||३७२।। अवादीदिति सोमोऽपि यद्येवं तर्हि मां मृतम् । स्वस्याग्रतोऽपि जानीहीत्युक्त्वा सोऽसिं समाकृषत् ॥३७३।। समारेभे सरभसं स यावन्मस्तकच्छिदम् । तावत् तया करे धृत्वा सैवमूचे महामतिः ॥३७४|| मदनानामधीधामवेश्याहमिति विद्धि माम् । तवास्मि क्षोभणायागां न क्षुब्धोऽसि क्षमस्व मे ॥३७५।। इत्युक्त्वा सा जगाम स्वकामिनामन्तिके जवात् । सोमचन्द्रोऽपि धाम स्वं त्रपावनमदाननः ॥३७६।। शीलश्रीसान्द्रयोरेवं श्रीदेवीसोमचन्द्रयोः । मिथः स्नेहेन सद्धर्मकर्मकर्मठयोस्तयोः ॥३७७।। जिनोपदेशरतयोर्वासनावासिचित्तयोः । सम्यगाराधनापूर्वमवसानमजायत ॥३७८।। युग्मम् ।। विपद्य प्रथमं कल्पं तौ प्रपद्य सुरश्रियम् । मन:प्रियां पञ्चपल्ली बुभुजाते सुखश्रियम् ॥३७९।।
CSCO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org