________________
८२ • मङ्गलकलशकथानकम्
वारिबिम्बच्छलान्नन्तुरपि राज्ञः सुधामुचः । असंमुखीनविरहे कटरे नलिनीसती || ३६० || भानौ भर्तरि भूषितान्यभुवने पङ्केजिनी तत्क्षणात्, व्यामीलन्नलिनाननास्तविलसच्चक्रद्वयीकुण्डला । श्रीराजेऽपि नवोदयेऽनभिमुखी लुप्तालिकेशावलिवैधव्यव्रतसूचिनीं शुचितरज्योत्स्नाङ्गिकां पर्यधात् ॥३६१ ॥ शार्दूलवि० ॥
अयाति तत्र दुर्जातिमुकुटे नष्टतोत्कटे । श्रीदेवी शीलरक्षाय सा पूत्कर्तुं प्रचक्रमे ॥३६२॥
अथ भूपभयाशङ्की स कलङ्की निकेतनात् । निर्गत्यागत्य मित्रेभ्यस्तमुदन्तमचीकथत् ॥३६३॥ इतश्च मदना कूटघटनापटिमाश्रयः । सन्ध्यायां सोमचन्द्रं सा स्वालयं यान्तमैक्षत || ३६४ || सा ततस्तान् नरानन्तर्वणं गुप्तमधारयत् । स्वयं च सत्वरं गोत्राङ्गनानेपथ्यमाधरत् ॥३६५|| समीपमेत्य वेगेन सोमचन्द्रमभाषत । भवन्तं भद्र ! मद्भर्त्ताह्वयतेऽन्तर्वणं स्थितः ॥ ३६६ ॥ ततः सरलधीः सोमः काननं यावदीयिवान् । न ददर्श पतिं तावत् तस्याः शस्याकृतेः कृती ॥३६७|| किमेतदिति तं सोमं ध्यायन्तं साभ्यधात् तदा । स्मरः शरैर्मां भेत्ताऽभूद् यदा ह्यसि मयेक्षितः || ३६८|| तत्तूणामिव कामेन म्रियमाणां शितैः शरैः । मां रक्ष रक्ष येन त्वमेतद्रक्षणदक्षिणः || ३६९ ||
CSX2Q
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org