________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ८१ परं स्मितकृतेनापि वचसालविकासिना । बद्धं कर्म तयात्यन्तदुःसहं धिगपि स्मितम् ।।३४९।। इतश्चात्रैव नगरे पञ्च दुर्दान्तपूरुषाः । मदनावेश्यया साकमुद्यानमगुरन्यदा ।।३५०।। अमीषां क्रीडतां तत्र वार्तावर्तेत्यजृम्भत । न सोमचन्द्रश्रीदेव्यौ शीलाच्चाल्यौ सुरैरपि ॥३५१॥ कामाङ्करस्तदावादीत् तन्मध्यादेकपूरुषः । श्रीदेवी चालयिष्यामि शीलाल्लीलायितैर्निजैः ॥३५२।। शीलः क्षितितले तावदलचश्चलचक्षुषाम् । न मे लीलायितं यावद्दम्भोलिरिव खेलति ॥३५३।। घनमालेव गर्जन्ती मदनापि तदावदत् । सौमचन्द्रीं शीलकान्ति क्लान्ति नेष्येऽस्म्यपि क्षणात् ।।३५४।। अथ कामाङ्करः सोमचन्द्रं ज्ञात्वा क्वचिद् गतम् । गत्वा तदीयमावासं श्रीदेवीमित्यवोचत ।।३५५।। श्रीदेवि ! देहि मे स्वान्ताभिप्रेतं प्रणतात्मनः । साऽप्यूचे किं तवाभीष्टं जल्पतां येन पूर्यते ।।३५६।। कामाङ्करोऽवददिदं स्वाङ्गसङ्गमवारिभिः । विध्याप्य स्मरतापं मां विधेहि प्रीतिपत्रलम् ।।३५७।। पुरुषब्रुव ! मा ब्रूहि विरूपमिदमीदृशम् । व्रज त्यज मम दृशोः पथं सत्पथमुत्सृजन् ॥३५८।। राजापि त्यज्यते स्त्रीभिः सुशीलाभिः सुदूरतः । किं वाच्यं मर्त्यमात्रस्य परीहारे महीतले ॥३५९॥
lovag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org