________________
८० • मङ्गलकलशकथानकम् ध्यात्वैवं दशदीनारसहस्रीं सुहृदः करे । सोऽर्पयित्वाऽवददिमं द्वितीयं मम हृद् भवान् ।।३३८।। दीनारास्तदमी देयास्त्वया धर्माय मे सखे ! । श्रियोऽर्जनाय यास्यामि देशान्तरमहं पुनः ॥३३९।। किञ्चास्य दानपुण्यस्य षष्ठांशस्त इति ब्रुवन् । जिनदेवो ययौ देशान्तरमर्जयितुं श्रियः ॥३४०॥ तन्मित्रं सोमचन्द्रोऽपि गतेऽमुष्मिन् महामनाः । सुपात्रेषु सुमित्रस्य शश्राण श्रेयसे श्रियम् ॥३४१।। वासनावासितमनाः परकीयामपि श्रियम् । स ददानः सपत्नीक: समभूदतिपुण्यभूः ॥३४२।। अप्यन्यसम्पदां दाता प्रपापालकवज्जनः । याच्यतेऽञ्जलिमायोज्य कटरे दानवल्गितम् ॥३४३।। सोमचन्द्रकलत्रस्य श्रीदेव्या अपरेद्यवि । रहस्येवं समाचख्ये भद्राह्वयवयस्यया ।।३४४।। यन्मे पतिर्विरक्तोऽभून्न जाने हेतुतः कुतः । साऽपि स्मित्वा ततः प्रोचे दूरं मे व्रज दृक्पथात् ।।३४५।। यस्मादिह भवद्दोषः सुपोषः कोऽपि भाव्यते । श्रुत्वैवं न रतिः क्वापि भद्रयावापि दुःखतः ॥३४६।। श्रीदेव्या दुःखिनी भद्रा स्मित्वा भूयोऽप्यभाष्यत । मा दु:खं कुरु हास्येन मयावादीदृशं वचः ॥३४७|| कर्मजन्मा न कस्येह दोषपोषः प्रगल्भते । सुकृतं दुष्कृतं किञ्च स्वकृतं येन भुज्यते ॥३४८।।
OSRO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org