SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् • ७९ यथार्थनाम्ना तेनास्य सोमचन्द्रस्य धीमतः । बभूव मैत्री मैत्र्यादिगुणराजिविराजिना ॥३२७|| याति काले तयोरेवं सख्यसङ्केतसद्मनोः । अन्यदा जिनदेवेन निशाशेषे व्यचिन्त्यत ॥३२८॥ सर्वार्थकारिणी सर्वानर्थसार्थनिवारिणी । लक्ष्मीर्लोके स्यात्तेनास्याः कार्यं यत्नादुपार्जनम् ॥३२९|| श्रिया जगन्ति जीवन्ति न तु जीवन्ति जीवितात् । जीवन्त्यपि मृतायन्ते तया मुक्तानि तानि तत् ॥ ३३०|| रमारसायनं यस्य प्रयोगे पूर्वपूरुषाः । मृता जीवन्ति जीवन्तः पुनः स्युः कीर्त्तिपीवराः || ३३१ || लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः । ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदराः ||३३२|| पूर्वेषामस्ति मे सम्पत्परं स्तोका ततस्ततः । क्रियमाणे व्यये दौस्थ्यं झगित्येव विजृम्भते ||३३३|| दौस्थ्ये च सति सीदन्ति पुमर्थाः स्वस्य सर्वतः । स्वजनाश्च वियुज्यन्ते हसन्ति च खलादयः || ३३४|| तस्माद्देशान्तरं गत्वा सत्त्वालम्बी श्रियोऽद्भुताः । उपार्ज्यागत्य सर्वेषां पूरयिष्ये मनोरथान् ||३३५|| दध्यौ भूयोऽपि मे देशान्तरं प्राप्तस्य चेन्मृतिः । जायते जायते तन्मे परलोकेऽधमा गतिः ||३३६|| तदस्मि दापयिस्यामि पश्चाद्दानं वयस्यतः । यथा मे जायते जन्म परलोकेऽतिनिर्मलम् ||३३७|| Cistaq Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy