________________
७८ . मङ्गलकलशकथानकम्
समस्ताशिवमूर्टोज़ शम्पासम्पातसोदरः । सम्पत्तिराजीराजीववनीराजीविनीश्वरः ॥३१६।। कुकर्मणां मर्मभेदी श्रीहर्म्यं सर्वशर्मणाम् । भुक्तिमुक्तिकलाकेलिवनं विजयतां वृषः ॥३१७।। युग्मम् ।। कलङ्कविघ्नविकलं फलत्येव फलं वृषः । स्वया श्रियाय॑ते यदि निर्व्याजमनसाङ्गिना ॥३१८।। वृषं वितनुते भृत्या यः श्रिया परकीयया । भवेत्तस्य भवेऽन्यस्मिन् सम्पल्लाञ्छनविघ्नयुक् ॥३१९।। प्रस्तावे पृथ्वीशोऽथ प्रणम्यावोचत प्रभुम् । मुनेऽस्मि कर्मतः कस्मादभुवं सुखदुःखभूः ॥३२०॥ देवी च कर्मणा केन विभो ! विध्वस्तशर्मणा । पात्रमीदृक्कलङ्कस्याजनि पात्रमपि श्रियः ॥३२१।। निशम्य तद्वचोऽवोचत्तरां प्रतिवचो मुनिः । आकर्ण्यतामात्मपृष्टमवधाय धराधव ! ।।३२२।। अस्तीह भरतक्षेत्रे समग्रनगरोत्तरम् । क्षितिप्रतिष्ठितं नाम लक्ष्मीधाम महापुरम् ॥३२३।। श्रीदेवीदयितस्तत्र सोमचन्द्राख्यया क्षितौ । विख्यातः कुलपुत्रोऽभूद् धर्मकर्मकलाद्भुतः ।।३२४|| श्रीदेवी निजनाथस्य सदाचाराच्युतस्थितेः । भक्तिप्राग्भारतो नित्यं पादसन्निधिभागभूत् ।।३२५।। तत्रैव नगरे किञ्च जिनदेवोऽप्यभून्नरः । यः स त्यागदयायुक्तः सदा सच्चक्रनन्दकः ॥३२६।।
OS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org