________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ७७ स्वाराज्यमिव साम्राज्यं भूगतं भूरिभूतिभिः । भुञ्जानस्य ययौ कालः कियान्मङ्गलभूभुजः ॥३०५।। विदित्वा वणिगित्येष तं प्रत्यन्तक्षितीश्वराः । ताज्यग्रहणायायुमिलित्वा भूरिभिर्बलैः ।।३०६।। भूभृन्मङ्गलकलशस्तानवेत्य समायतः । अभ्येत्य तैः समं युद्धमारेभे भैरवाकृतिः ॥३०७।। विजित्य तानरीनेष वशीकृत्य समन्ततः । विससर्ज स्वराज्येषु महान्तो नम्रवत्सलाः ॥३०८।। एत्य चम्पापतेश्चम्पापुरी पालयतः सतः । जयशेखरनामाभूदङ्गजः मावनीगजः ॥३०९।। त्रैलोक्यसुन्दरी सोमं सूनुमालोक्य मुद्वती । क्वचिन्न माति वेलेव क्षीरनीरनिधेः क्षितौ ॥३१०॥ सीत्कृतिजात: किलकिलकलरवरुचिरश्चिरं हसितः हंसः । सुतमुखकमले विलसन् कयापि यदि पुण्यया दृश्यः ॥३११।। आर्या० । मातुरुल्लापनगिरां गुणनीकर्मकोविदः । निर्नामताम्बुधौ मज्जत्कुलनौनङ्गरः सुतः ॥३१२।। अथोद्यानेऽन्यदायातं जयसिंहमहामुनिम् । विदित्वा वनपालेभ्यः प्रणन्तुं भूपतिर्ययौ ॥३१३।। निषसाद प्रणम्यैनं प्रसादविशदाननः । स श्रोतुं तद्घनध्वानमुत्कण्ठी नीलकण्ठवत् ॥३१४।। महामुनिरपि प्रेक्ष्य तां सभां वासनावतीम् । विदधे विधिना ध्वान्तध्वंसनां धर्मदेशनाम् ॥३१५।।
05/09
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org