________________
७६ • मङ्गलकलशकथानकम् पृथ्वीभृन्मिथुनं वीक्ष्य तत्कामरतिसन्निभम् । दध्यावुग्रमतिर्मन्त्री कथमेतद् व्ययोजयत् ? ॥२९४|| धिक्तं निस्त्रिंशमूर्धन्यं निष्कलङ्ककलङ्किनम् । स्वस्वामिद्रोहिणं धिक्तं दुष्टमृष्टं हृदास्ययोः ॥२९५।। अथो नृनाथो रोषान्धः सिंहभूपं समादिशत् । मारयामुं समारुह्य मन्त्रिणं मा विलम्ब्यताम् ॥२९६।। ससैन्यः स गलदैन्यस्तद्वधाय मृगाधिपः । यावच्चचाल कलशस्तावद् भूपं व्यजिज्ञपत् ।।२९७|| देव ! मेऽसौ पितृसमः सचिवस्तत्प्रसद्य नः । मुञ्चैनं मा वधी: किञ्च यथास्थित्यास्तु सुस्थितः ।।२९८।। भूपः सुतापतेस्तेन चरितेन चमत्कृतः । तथा चक्रेऽखिलं येन नान्यथा महतां मनः ।।२९९।। ससामन्तः ससचिवः सान्तपुरपरिच्छदः । तदा सपौरः क्षितिभृद्वर्धापनमकारयत् ।।३००।। अथो नृपानायिताभ्यां पितृभ्यां सह मङ्गलः । तत्रास्थात् पुरि सौख्येन सप्रियः सपरिच्छदः ॥३०१।। कियत्यपि गते काले निष्पुत्रः पार्थिवोऽपि तम् । सामन्तामात्यमन्त्रेण मङ्गलं स्वे पदे न्यधात् ।।३०२।। ततः श्रीशीलभद्रस्य यशोभद्रस्य सद्गुरोः । स्वयं धराधराधीशः सन्निधौ व्रतमग्रहीत् ॥३०३।। प्रलीनपापधीः पुण्यलीनधीगुरुणा समम् । प्रभञ्जन इवाशासु विश्वासु विजहार सः ॥३०४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org