________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ७५ सभाध्यक्ष नरेन्द्रस्तां सतीमुक्त्वादिदेश सः । स्वच्छे ! वत्से ! स्वभर्तारं भज त्यज भयं व्रज ॥२८३।। इत्यादिश्य सुतीकृत्य भूषितीकृत्य भूषणैः ।। स्त्रीवेषीकृत्य नृपतिः प्रत्योकः प्रेषति स्म ताम् ।।२८४।। वैरिसिंहक्षितिपतिर्धनमूचे वधूवरम् । स्वं मङ्गलाय नीत्वौकः प्रेषेस्तत्र पुनर्गृहे ।।२८५।। यदिदं मन्दिरं माद्यदिन्दिरं ते तनुरुहः । मयापितं सपत्नीकस्तत्र भुङ्क्तामसौ चिरम् ।।२८६।। भवत्वेवमिति प्रोच्य श्रेष्ठी नीत्वा वधूवरम् । स्वमन्दिरे विस्तरेण वर्धापनमकारयत् ।।२८७।। दशाहादिमहापर्व कारयित्वा सविस्तरम् । श्रेष्ठी वधूवरं तत्र प्रेषयामास मन्दिरे ।।२८८।। ततस्त्रैलोक्यसुन्दर्यादेशतः सिंहभूपतिः । तत्तातसन्निधौ गत्वा वेषसैन्ये समार्पयत् ।।२८९।। निःसुतस्त्वं किमित्यागा ? इति प्रोक्तः क्षमाभुजे । यथादृष्टं विस्तरतस्तं वृत्तान्तमचीकथत् ।।२९०।। समाकयेति तनयामहिमानममानकम् । प्रमोदमेदुरमनाः क्ष्माभृदेवमचिन्तयत् ।।२९१।। अहो ! चित्रमहो ! बुद्धिस्तस्या ब्रह्मण्यहो ! रतिः । अहो ! कलङ्कभीरुत्वमहो ! भक्तिः स्वभर्तरि ।।२९२।। विचिन्त्यैवं नरेन्द्रस्तां सिंहेन वरसंयुताम् । उज्जयिन्याः समानाय्य स्वनगर्यामवीविशत् ।।२९३।।
orao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org