________________
७४ • मङ्गलकलशकथानकम् त्रैलोक्यसुन्दरी स्वेन नेपथ्येन परिष्कृता । प्रपत्य पादयोः पत्युः प्राञ्जलिर्जल्पति स्म सा ॥२७२।। तदा दम्भेन मां मुक्त्वागमस्त्वं जीवितेश्वरः । इदानीं तु कैतवेन केन यास्यसि ? जल्पताम् ।।२७३।। त्रैलोक्यसुन्दरी रेजे तदा स्वेदाविलाकृतिः । वियोगतप्ता स्नातेव प्रियागमसरोवरे ।।२७४।। कं कं रसं न साकम्पा चाम्पापतिसुताऽभजत् । धृष्टतापत्रपाद्वैतविह्वलीकृतमानसा ॥२७५।। अथ मङ्गलकुम्भोऽपि बभाषे भास्वदाननः । तावदेवमभूदैवादैवं कः खण्डयेद्वद ।।२७६।। अतः परं प्रिये ! कार्यं सर्वमायतिसुन्दरम् । तद्विषादनिषादेन मात्मानं मलिनीकुरु ।।२७७।। किञ्च ते ज्ञापनायास्मि तदानीमकिरं गिरम् । अमी स्युर्मोदकाः स्युश्चेद्विशालानीरयोगजाः ॥२७८।। स्थापयित्वा प्रियं तत्र तमनुज्ञाप्य च स्वयम् । कृत्वा नृवेषं नारेन्द्री सा नरेन्द्रान्तिकं ययौ ॥२७९।। नत्वा यथोक्ते वृत्तान्ते तया प्रोक्ते नरेश्वरः । अहो कीदृगभूच्चित्रमिति चिन्तयति स्म सः ॥२८०।। अहो मतिप्रपञ्चश्रीरस्याः शिशुमुखीपतेः । प्रापि व्यूढो यदनया पतिः पालितशीलया ॥२८१।। अहो तस्य नृशंसत्वं मन्त्रिणः पापमन्त्रिणः । स्वामिस्त्रीद्रोहमध्यात्वा यदेनामकलङ्कयत् ।।२८२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org