________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ७३ धनदत्तोऽप्यथ श्रेष्ठी व्याकुलीभूतमानसः । उपादायाद्भुतं ढौकनकं राजकुलेऽचलत् ।।२६१।। नीत्वा नारीनरेणाथ मालस्योपरि मङ्गलः । कण्ठीरवासने न्यस्य सिंहप्रत्यक्षमौच्यत ॥२६२।। कान्त ! शान्तमनीभूय तदानायय वस्तु यत् । मदीयजनकस्तेऽदात् मङ्गलेषु विवत्तिषु ।।२६३।। यथा तदर्शनात्सिंहः पितुर्मूर्त्यन्तरं मम । प्रत्येति तत्क्षणं किञ्च तल्लक्ष्माप्यपगच्छति ॥२६४।। मङ्गलोऽप्यूचिवानेवं यद्येवं सिंहभूपतिः । प्रेक्ष्यतां सदनेऽस्माकं यथा नयति वस्तु तत् ।।२६५।। एवं कृते गतः सिंहस्तद्गृहं तत्पिताप्यथ । तस्यासनादिकां स्वेन प्रतिपत्तिमकल्पयत् ।।२६६।। सोऽप्यूचे श्रेष्ठिनं यद् भो ! मा भैषीः शृणु सुश्रवम् । तवात्मजन्मा जामाताऽजन्येवं तत्सुखी भव ।।२६७।। परं पुरा नराधीशाद्यत्त्वयावापि भूषणम् । भूपनामाङ्कितं किञ्च स्यन्दनाश्वादिकं च यत् ॥२६८|| तद् विश्वं दर्श्यतां येन दर्शनेऽस्य महाशय ! । प्रत्येम्यहं भवत्पुत्रभूपपुत्र्योः करग्रहे ।।२६९।। तथा कृते धनेनापि नृपनामाङ्कमद्भुतम् । निभालयन् भूषणादि प्रतीतः सिंहभूपतिः ।।२७०।। संमान्य श्रेष्ठिना सिंहः प्रेषितः क्षितिभृद्भुवः । सर्वमाख्याय सद्भूतं तां स्त्रीवेषामकारयत् ॥२७१।।
Atsvag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org