________________
७२ • मङ्गलकलशकथानकम् मा मथ्यतां बहुतरं सा कथा कथ्यतां त्वया । स्वानुभूतेव या सत्या कल्पनाविकला च या ॥२५०।। यया च श्रुतया मे स्यादिति चित्ते चमत्कृतिः । ते सत्यं मोदकाः स्युर्ये विशालाजलयोगजाः ॥२५१।। श्रुत्वैवं मङ्गलघटश्चेतसीति व्यचिन्तयत् । अयं चम्पाधिपसुतः साकूतमिव जल्पति ।।२५२।। तत्किमेष नृरूपेण सा कनी कमनीयरुक् । भाविनी ? या मया व्यूढा भाटकेन क्वचित्पुरे ।।२५३।। ध्यात्वैवं वीक्ष्यते यावन्निभृतं तं वधूनरम् ।। सैवेति तावन्निश्चिक्ये मङ्गलः स विचारराट् ॥२५४।। केनापि हेतुना मन्ये नृरूपीभूय भूपभूः । समाययौ तन्न जाने गहनं विधिवल्गितम् ।।२५५।। किं विकल्पेन वा स्वेन स्फुटीभाव्यचिराददः ? । धनाङ्गभूर्विचार्येति साकूतः स्वां कथां जगौ ।।२५६।। दिव्यगी: श्रुतिमारभ्य मन्त्रिनिष्काशनावधेः । कथायां कथितायां स व्यरंसीद् धनदत्तभूः ॥२५७।। आकर्ण्य भूपभूरेवमेवमूचे क्रुधेव सः । रे रे कोऽयमसम्बद्धभाषी धृष्टशिरोमणिः ? ।।२५८।। धरतैनं किमस्माकममात्यं दूषयत्यसौ ? । किमेवं मम मन्त्री दुष्कुरुते विश्वगर्हितम् ? ॥२५९।। धृते तत्र सहच्छात्रस्तस्यौकः प्राप्य पाठकः । साद्यन्तं पुत्रवृत्तान्तं तत् ताताय न्यवेदयत् ।।२६०॥
O5/09
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org