________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ७१ ततः समं पाठकेन मानयित्वा स मङ्गलः । लक्षयित्वा मनोभावं प्रार्थ्यते तायपुङ्गवान् ।।२३९।। सिंहेनापि ततः प्रातर्गत्वोपाध्यायपुङ्गवः । न्यमन्त्र्यत सहच्छात्रश्चाम्पेशं सोऽप्यमन्यत ।।२४०॥ अथोपाध्यायधूर्योऽपि सत्वरं तत्र जग्मिवान् । भूपभूरपि सन्मानं तस्यामानं च चकृवान् ॥२४१।। मङ्गलं स्त्रीनर: प्रेक्ष्य त्रस्तः स्मरशरच्छिदः । मन्ये रोमाञ्चदम्भेन वर्म वर्मणि पर्यधात् ।।२४२।। विमुच्य मङ्गलं नारीनरश्छात्रानशेषतः । मान्योचितासनाशनवसनाद्यैरमानयत् ॥२४३।। अतिमात्रं महाभक्त्या राजाहरासनादिभिः । मानयामास मङ्गलकुम्भं चम्पाधिपाङ्गभूः ॥२४४।। तन्मानमद्भुतं दृष्ट्वा छात्रवर्गेऽतिदुःखिनि । अथाध्यापकधौरेयमूचे त्रैलोक्यसुन्दरः ॥२४५।। छात्रेण केनचिद्विद्वन् ! कथां कथयतां भवान् । कलावानिव योऽमीषु कलयत्यखिलाः कलाः ॥२४६।। छात्रैरथोचे सकलकलैः कश्मलिताशयैः । यस्येदृगादर: सैष कथां वः कथयिष्यति ।।२४७।। विद्वदुक्तोऽवददथो मङ्गलः स्मेरिताननः । कल्पिताकल्पिततया कथा लब्धप्रथा द्विधा ।।२४८।। किं कल्पिता कथा कथ्या ? कथ्यतां किमकल्पिता ? । गुणसुन्दरभूरूचे चेतसीति चमत्कृतः ।।२४९।।
lovag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org