________________
७० • मङ्गलकलशकथानकम् त्रैलोक्यसुन्दरः कार्त्तान्तिकादिष्टे विशिष्टधीः । सुदिने सदने तत्र सञ्चार विचारवित् ॥२२८॥ वातायनस्थितस्तत्र सोऽन्यदैक्षत भूपभूः । पाथसः पथि तानश्वान् पाथःपानाय गच्छतः ॥२२९॥ त्रैलोक्यसुन्दरः प्रेक्ष्य तार्थ्यांस्तानित्यचिन्तयत् । त एतेऽश्वाः प्रदत्ता ये, मत्पित्रा मत्पतेः पुरा ॥२३०|| अथादिशन्नरानेष यात जानीत वेगतः । कस्यैतेऽश्वाः ? कुतस्त्या वा ? क्रेष्येऽमूनद्भुतद्युतीन् ॥२३१| तदादेशाज्जवाद् गत्वा सर्वं ज्ञात्वा कुतोऽपि ते । समागत्य समाचख्युः स्वामिने नम्रमौलयः || २३२|| मङ्गलकलशस्यैते वाजिनश्चित्तवाजिनः । चम्पापूर्या: समानीता एतेनैव महात्मना || २३३|| श्रुत्वैवं सोऽपि भूयोऽपि तान् प्रैषीन्मुदिताशयः । जानीताश्वपतिः किं स कुरुते ? कुत्र तिष्ठति ? || २३४ || तेऽपि गत्वा तथा ज्ञात्वागत्य स्वस्वामिनोऽन्तिकम् । इत्याचख्युर्गृहासन्ने कलाभ्यासं करोति सः || २३५॥ अथ चाम्पाधिपश्चित्ते दध्याविति स एष सः । यो मे प्राणप्रियीभूय वासागारात्तदा ययौ ॥२३६॥ ध्यात्वैवं सिंहनृपति स प्रोचे तात ! वाजिनः । मया क्रेया अमी तावत्तत्त्वयैवं विधीयताम् ॥२३७॥
त्वया निमन्त्र्यतामत्र सच्छात्रः पाठकाग्रणीः । तथा तेन सहायाति मङ्गलोऽप्यश्वनायकः || २३८||
P5XE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org