________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ६९ आप्तं पराक्रमकलावाप्तं सिंहमथादिशद् । तथा त्वं पालयेरेनां यथाऽसौ स्यान्न लक्ष्मभूः ॥२१८|| नित्यं नियन्त्रिता नारी निवासस्य श्रिये भवेत् । सदा दण्डवती चैत्ये पताका स्याविभूषणम् ।।२१९।। भूयो विज्ञापय स्वच्छे ! यद्वत्से ! तव भासते । इति भूपोदिता सा तं व्यजिज्ञपदनाकुला ।।२२०।। यदि स्यात्तव चेदाज्ञा तद् विशालां व्रजाम्यहम् । भूभृदूचे व्रज सुते ! परं शीलवती भवः ।।२२१।। धात्रीच्छत्रगिरीन्द्रदण्डकरणे शक्तिर्यदुज्जृम्भते । ज्ञानश्रीरपि यच्च विश्ववलये व्यावल्गिनी वल्गति । यच्चानन्तचतुष्टयैकसदनं सा सिद्धिरप्यङ्गिनामुन्मीलत्यकलं तदेतदखिलं सद्ब्रह्मलीलायितम् ।।२२२॥ शार्दूलवि० ॥ त्रैलोक्यसुन्दरी भूपं नत्वा सिंहबलान्विता । कुमारवेषभृद्वेगादगादुज्जयनी पुरीम् ॥२२३।। चम्पाधिपात्मजं ज्ञात्वायातं त्रैलोक्यसुन्दरम् । महाभूत्याभ्येत्य पूर्यां प्रावेशयदिलापतिः ॥२२४।। महासन्मानपूर्वं च महावासं समार्पयत् । चम्पाभूपतिभूः सोऽपि तत्रास्थात् सपरिच्छदः ।।२२५।। पू:पूर्वभागं सजलं सवृक्षपटलं कलम् । विदित्वात्मीयपुरुषैर्विश्वासश्रीनिकेतनैः ॥२२६।। पृथ्वीपतिमनुज्ञाप्य प्रदेशे तत्र भूपभूः । सप्तभूमिकमुद्दामं स मन्दिरमकारयत् ॥२२७|| युग्मम् ॥
05/ee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org