________________
६८ • मङ्गलकलशकथानकम्
ध्यात्वैवं जननीमूचे मातः ! पित्रा समं मम । दर्शनं कारय सकृन्न माता विकृता भवेत् ॥२०७।। न किञ्चिदुत्तरं माता यदा दत्ते तदा ततः । सा खिन्ना सिंहनृपति राजमान्यमवोचत ।।२०८।। त्वं मे पितृसमः किञ्च राजमान्योऽस्यतः पितः! । कृपां कृत्वा मयि नृपमेवं विज्ञपय प्रभो ! ॥२०९।। या देव ! भवतश्चित्ते दुहिता दोषभूरभूत् । विज्ञप्ति ते सैकपदां विधाय विरमिष्यति ॥२१०।।
ओमित्युक्त्वा सिंहभूभृद् भूभृतं प्राप्य तद्वचः । तथा कथञ्चिदस्याख्यद्यथाऽभूद् भूभृदुत्कृपः ॥२११।। अभाणीच्च यथानीय तां विज्ञापय मां नृप ! । तस्याः करोमि विज्ञप्ति सफलां सकलां तथा ॥२१२।। तथाकृते तेन तातं कुमार्येवं व्यजिज्ञपत् । कुमारवेषं मे देहीत्युदित्वा विरराम सा ॥२१३।। निशम्यैवं नरपतिर्मनसैवं परामृशत् । गुरुकार्येण केनापि मामेवं याचते सुता ॥२१४|| अथ च माभृतामास्ते नीतिरेवं सनातनी । सुता कुमारनेपथ्यं याचते चेत्तदर्प्यते ।।२१५।। अन्यदाप्तनृणां पुत्री रक्षणाय समर्प्यते । तद्द्वारेण तथा गोत्रं गोत्राभर्तुर्न दुष्यते ॥२१६।। विमृश्यैवं नरेशोऽपि कौमारं वेषमार्पयत् । चापासिशस्त्रीप्रमुखं सुताया विकसदृशः ॥२१७।।
989
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org