________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ६७ गत्वा प्रातरमात्योऽपि पूच्चक्रे भूभृतः पुरः । देव ! मुष्टोऽस्मि दैवेन दैवं हि बलवत्तरम् ।।१९६।। मत्पुत्रस्तव जामात्रीभूतः शक्रिष्यति क्षितौ । इत्याशाशाखिशाखां मे दुर्दैवदहनोऽदहत् ।।१९७।। देव ! देवप्रसादोऽसौ दुर्दैवेन वृथा कृतः । स्नुषास्पर्शेन तनयं कुष्ठिनं मम कुर्वता ।।१९८।। धिग् दैवं नवमी निन्द्या बुधयोगे महीतले । पशूपहारयोगे तु सा महत्त्वेन मह्यते ॥१९९|| भूपोऽप्याकर्ण्य तवाचं वाचं प्रोवाच मे दृशोः । न गोचरमपि प्राप्या सा पापा पतिपुंसिनी ।।२००।। नृपाज्ञया जनन्यापि सा दृष्टावज्ञया सती । हा किमेतन्ममोदीर्णं विस्तीर्णं ? ध्यातवत्यदः ॥२०१।। येन स्पृष्टा न तावन्मे पतिर्योऽभूत्पतिः पुनः । स ययौ क्वापि तेनास्मि कथं स्यां पतिपुंसिनी ? ॥२०२।। अयं पुन में यदभूत्कलङ्काङ्कुरसङ्क्रमः । स प्राग्जन्माजितः कोऽपि निष्कलङ्ककलङ्कनात् ।।२०३।। दोषः प्रयुक्तो मिथ्यापि पापपोषकरोऽङ्गिनः । यत्प्रदोषेण कालुष्यं विश्वस्यापि विजृम्भते ॥२०४॥ चञ्चच्चिन्ताभराक्रान्ता भ्रान्ता त्रैलोक्यसुन्दरी । सा सस्मार झगित्येतत्तदुक्तं प्रतिभाऽद्भुता ॥२०५।। मोदकानाममीषां स्यादेता मोदकता तदा । यदा भवेदुज्जयनीनगरीनीरयोगिता ॥२०६।।
Alorata
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org