________________
६६ • मङ्गलकलशकथानकम् बहिराडम्बरपर: स्यान्नर: सधनोत्करः । श्रीपतिः सायुधः शश्वन्न कदापि निरायुधः ॥१८५।। अथान्येधुरनुज्ञाप्य मङ्गलः पितरं निजम् । सौधासन्नाध्यापकस्याभ्यासेऽभ्यस्यति सत्कलाः ॥१८६।। जनः पशुविना विद्यां विना विद्यां जनोऽन्धलः । श्रीमन्तस्तन्न कृत्यज्ञास्तन्न पश्यन्ति किञ्चन ॥१८७।। भूयसा भक्तिभारेण विनयीभूय भूरिधीः । विद्या ग्रहीतुमारेभे स उपाध्यायपुङ्गवात् ।।१८८।। विद्यावाप्तिर्विनयतो हिताय विहिता भवेत् । हन्यन्ते केकिनः किं न वैमुख्येन कलापिन: ? ॥१८९।। इतश्चामात्यकेनापि तेनात्मतनयस्तदा । कृतमङ्गलनेपथ्यः प्रैषि वासौकसि क्षणात् ।।१९०।। सोऽप्यत्रागत्य पल्यङ्के स्थित्वा तां नृपकन्यकाम् । प्रोच्य प्रिये ! प्रसीदेति पाणौ स्पष्टुं प्रचक्रमे ॥१९१।। हन्ताऽन्यः कोऽपि कुष्ठ्येष मम पल्यङ्कमागतः । हहा ! क्व स प्रियतमश्चक्षुःकर्पूरसोदर: ? ॥१९२।। इति ध्यात्वा वधूर्मुक्त्वा वेगात्तल्पमनल्पधीः । द्वार्येत्य स्वसखीनां च स्वरूपं तदचीकथत् ।।१९३।। ताभिरुक्तं सखि ! भ्रान्ता प्रियोऽन्तस्तेऽधुनाविशत् । सोचे भ्रान्ता यूयमेव स्थास्याम्यत्रैव वोऽन्तिके ॥१९४।। सखीभिरपि तज्ज्ञात्वा तथ्यं सा स्वान्तिके धृता । निशान्ते मातुरादेशान्नीता मन्दिरमात्मनः ॥१९५।।
O5/ee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org