________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ६५
तदानीं सात्यभामेयः पुण्यामेय इति ब्रुवन् । उत्तीर्य स्यन्दनात् पित्रोः पादयोः प्रणनाम सः ॥१७४|| ससम्भ्रमं समुत्थाय पितृकण्ठे विलग्य च । स रुरोद सप्रमोदः पुलकोद्भेदमेदुरः ||१७५|| विदित्वा नन्दनं स्फीतानन्दकन्दलिताननम् । बाढं रुरोदतुः कण्ठे विलग्य पितरावपि ॥१७६॥ तदान रुदतां तेषां सम्प्लवः सुखदुःखयो: । योऽभूत् त एवं तं जानन्त्यसौ यैरन्वभूयत ॥ १७७॥ पितृप्रणयिपौराद्यैः परीते परितस्ततः । मूलादप्यात्मनो वृत्तं मातापित्रोः शशंस सः ॥१७८॥ कथ्यमानं तदाकर्ण्य तदा वृत्तं महात्मनः । भाग्यश्रीभाजनं मेने सत्यभामाङ्गजं जनः ॥ १७९ ॥ रथादथायमुत्तार्य तत् तद्वैभवमद्भुतम् । पञ्चाश्वीमपि वेगेन स गेहान्तरगोपयत् ॥ १८० ॥ तया कमलया स्वेनानीतया स्फीतयाथ सः । सप्राकारमतिस्फारमात्मागारमकारयत् ॥ १८१ ॥ हेलातापदे धर्मजन्मने सम्पदे नमः । यद्विस्फूर्त्तेरदेवोऽपि स्याद्देवस्तद्भवे जनः ॥ १८२ ॥ ये श्रीमन्तः पितृश्रीभिस्तेषां काहङ्कृतिः क्षितौ । सवितुस्तेजसा तेजस्विनोऽश्मानोऽपि केऽपि यत् ॥ १८३ || मृतानपि जीवयन्ती राजयन्ती रलानपि (?) । उत्कर्षयन्ती हीनानप्यहो ! श्रीरधिका विधेः || १८४||
C5Yan
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org