________________
६४ • मङ्गलकलशकथानकम्
तदेतदुक्तं घटति न कथञ्चन सर्वथा । घटते वाऽमुष्य भवेत् तत्र मातृकुलं यदि || १६३|| प्रध्याय धात्रीधवभूस्तस्मै ताम्बुलमार्पयत् । मनोरागस्य जनकं बहीरागकृदप्यतः || १६४ ॥ भूयोऽपि संज्ञितस्तैः स निर्गमाय धनात्मजः । प्रियामूचेऽस्मि यास्यामि वर्चोगेहेऽसि तिष्ठ तद् ॥१६५॥ पयः क्षणान्तरे प्रेष्यमिति प्रोच्य धनाङ्गजः । वासगेहाद् विनिर्गत्य तानूचे क्व हयादि मे ? || १६६|| नरैरुज्जयनीमार्गं नीत्वा तं दर्शितं ततः । तस्याखिलं तुरगादि सोऽपि तद्वीक्ष्य हृष्ट्यभूत् ॥१६७॥ कुमारोऽपि ततः सारं समादाय ततः स्वतः । निवेश्य स्यन्दने तत्र युङ्क्ते स्म चतुरो हयान् ॥१६८|| संयोज्य पञ्चमं पृष्ठे वाजिनं धनदत्तभूः । पृच्छति स्म नृणां पार्श्वे मार्गग्रामादिनाम सः ॥१६९॥ शेषमेतदशेषं मे वस्तु मन्त्रिशिरोमणेः । समर्प्यमिति तानुक्त्वा सोऽचलत् स्वां पुरीं प्रति ॥१७०॥ वेगादेत्य पुरीं स्वीयां वाजिभिर्वायुवाजिभिः | प्रविशन्नात्मनो वेश्म पितृभ्यामुदितोऽथ सः ॥ १७१॥ किमैषि ? परवेश्मान्तर्नास्त्यग्रे मार्गनिःसृतिः । तत् तिष्ठ राजपुत्र ! त्वं शिष्टानां नोचितं ह्यदः ॥१७२॥
मदीयं मन्दिरं माद्यदिन्दिरं पितराविदम् । तत्कथं प्रविशन्नत्र प्रतिषिध्योऽस्मि ? कथ्यताम् ॥ १७३ ||
Sibya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org