________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ६३ मृगाक्षीमानमाणिक्यापहारस्फारतस्करः । यदेष च यदेषा च मर्त्यलोकमनोहरा ॥१५२॥ अनयोरुभयोः कुर्वन् सङ्गमं नलिनासनः । नाऽसमञ्जसकारीति तदेष स्मर्यते बुधैः ।।१५३।। इति पौरगिरं श्रृण्वन्मङ्गलः प्रापदालयम् । मङ्गलेन प्रविश्यात्र वासागारं जगाम सः ॥१५४।। पल्यङ्कसङ्गिनः पत्युर्वधूस्त्रैलोक्यसुन्दरी । निषसाद सन्निधाने प्रसादविलसन्मुखी ॥१५५।। अत्रान्तरे मन्त्रिनरैरन्तरङ्गैर्धनात्मजः । दृक्संज्ञया संज्ञितोऽसौ याहि पाहि निजं वचः ।।१५६।। सोऽपि कृत्वा वपुश्चिन्तामिषं यावद्गृहात्ततः । निस्ससार वधूस्तावदात्ताम्बुरनुगाजनि ।।१५७।। पतिं कृतवपुश्चिन्तं विचिन्तं वीक्ष्य साऽवदत् । किं क्षुधा किं तृषा वा त्वां बाधते ? कान्त ! कथ्यताम् ॥१५८।। ओमित्युक्ते तेन तया दास्या मातृगृहात्ततः । आनायिता दयिताय मोदका हारि वारि च ॥१५९।। द्वाभ्यामपि तदा भुक्ते सिंहकेसरमोदके । विदित्वा विजनं स्वस्य ज्ञप्तये कलशोऽवदत् ॥१६०।। मोदकानाममीषां स्यादृता मोदकता तदा । यदा भवेदुज्जयनीनगरीनीरयोगिता ।।१६१।। राजाङ्गजा निशम्यैवं विहस्य ध्यातवत्यदः । सा दूरे नगरी तां न प्रियोऽसौ दृष्टवान् खलु ॥१६२।।
Aoyag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org